श्रवणम्

6.16.41 समानपद
प्र दे॒वं दे॒ववी᳚तये॒ भर᳚ता वसु॒वित्त᳚मम् ।
आ स्वे योनौ॒ नि षी᳚दतु ॥
▶ पदपाठः (Word-by-word)
प्र । दे॒वम् । दे॒व॑वी᳚तये । भर᳚त । व॒सु॒वित्॑त᳚मम् ।
आ । स्वे । योनौ᳚ । नि । सी॒द॒तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः देवं द्योतमानं वसुवित्तमं वसूनां धनानां वेदयितारं लंभयितारमग्निं प्रभरत प्रहरत आहवनीयेग्नौ प्रक्षिपत किमर्थं देव- वीतये देवानांभक्षणार्थं तथाचब्राह्मणं—प्रदेवंदेववीतयेभरतावसुवित्तममितिप्रह्रियमाणायाभिरूपायद्यज्ञेभिरूपंतत्समृद्धमास्वेयोनौनि- षीदत्वित्येषहवाअस्यस्वोयोनिर्यदग्निरग्नेरिति । सचाग्निः स्वेयोनौ कारणे स्थाने आहवनीयेआनिसीदतु अभीनिषण्णोभवतु ब्राह्मणंच- भवति—एषवाअस्यस्वोयोनिर्यदग्निरग्नेरिति ॥ ४१ ॥