अग्ने᳚ यु॒क्ष्वा हि ये तवाश्वा᳚सो देव सा॒धवः᳚ ।
अरं॒ वह᳚न्ति म॒न्यवे᳚ ॥
अरं॒ वह᳚न्ति म॒न्यवे᳚ ॥
पदपाठः (Word-by-word)
अग्ने᳚ । यु॒क्ष्व । हि । ये । तव᳚ । अश्वा᳚सः । दे॒व॒ । सा॒धवः᳚ ।
अर᳚म् । वह᳚न्ति । म॒न्यवे᳚ ॥
अर᳚म् । वह᳚न्ति । म॒न्यवे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेदेव द्योतमानाग्ने तानश्वान् युक्ष्व आत्मीयेरथेयोजय ये तव त्वदीयाः साधवः साधकाः सुशीलावा अश्वासोश्वाः अरं अलंपर्याप्तं व- हन्ति किमर्थं मन्यवे मन्यतेयष्टव्यत्वेनदेवानत्रेतिमन्युर्यागस्तदर्थं तानश्वान् रथेयुक्ष्वेत्यर्थः हिखलु ॥ ४३ ॥