अ॒ग्निस्ति॒ग्मेन᳚ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॒᳚त्रिण᳚म् ।
अ॒ग्निर्नो᳚ वनते र॒यिम् ॥
अ॒ग्निर्नो᳚ वनते र॒यिम् ॥
पदपाठः (Word-by-word)
अ॒ग्निः । ति॒ग्मेन᳚ । शो॒चिषा᳚ । यास᳚त् । विश्व᳚म् । नि । अ॒त्रिण᳚म् ।
अ॒ग्निः । नः॒ । व॒न॒ते॒ । र॒यिम् ॥
अ॒ग्निः । नः॒ । व॒न॒ते॒ । र॒यिम् ॥
सायणभाष्यम् (Sayana Commentary)
अयमग्निः तिग्मेन तीक्ष्णेन शोचिषा तेजसा विश्वं सर्वं अत्रिणमत्तारं राक्षसादिकं नियासन्निहन्तु अपिच नोस्मभ्यमग्निः रयिं धनं वनते ददातु ॥ २८ ॥