श्रवणम्

6.16.7
त्वाम᳚ग्ने स्वा॒ध्यो॒३॒᳚ मर्ता᳚सो दे॒ववी᳚तये ।
य॒ज्ञेषु᳚ दे॒वमी᳚ळते ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । सु॒॑आ॒ध्यः᳚ । मर्ता᳚सः । दे॒व॑वी᳚तये ।
य॒ज्ञेषु᳚ । दे॒वम् । ई॒ळ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने देवं द्योतमानं त्वां स्वाध्यः शोभनाध्यानाः मर्तासोमनुष्याः देववीतये देवानांतर्पणार्थं यज्ञेषु ईळते स्तुवंति याचन्तेवा ॥ ७ ॥