श्रवणम्

6.16.4
त्वामी᳚ळे॒ अध᳚ द्वि॒ता भ᳚र॒तो वा॒जिभि᳚ः शु॒नम् ।
ई॒जे य॒ज्ञेषु᳚ य॒ज्ञिय᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । ई॒ळे॒ । अध᳚ । द्वि॒ता । भ॒र॒तः । वा॒जि॑भिः᳚ । शु॒नम् ।
ई॒जे । य॒ज्ञेषु᳚ । य॒ज्ञिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वांभरतः दौष्षंतिः एतत्संज्ञोराजा वाजिभिः वाजोहविर्लक्षणमन्नंतद्वद्भिरृत्विग्भिःसह द्विता द्विविधं इष्टप्राप्त्यनिष्टपरिहार- रूपेणद्विधाभिन्नं शुनं सुखमुद्दिश्य ईळे स्तुतवान् स्तुत्वाच यज्ञियं यज्ञार्हं त्वां यज्ञेषु तृतीयार्थेसप्तमी यज्ञैः ईजे इष्टवान् तस्मैत्वमुभयविधं- सुखंप्रादाइत्यर्थः ॥ ४ ॥