श्रवणम्

6.16.47
आ ते᳚ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ᳚रामसि ।
ते ते᳚ भवन्तू॒क्षण᳚ ऋष॒भासो᳚ व॒शा उ॒त ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । अ॒ग्ने॒ । ऋ॒चा । ह॒विः । हृ॒दा । त॒ष्टम् । भ॒रा॒म॒सि॒ ।
ते । ते॒ । भ॒व॒न्तु॒ । उ॒क्षणः᳚ । ऋ॒ष॒भासः᳚ । व॒शाः । उ॒त ॥
▶ सायणभाष्यम् (Sayana Commentary)

अनयाध्ययनंप्रशस्यतइत्याश्वलायनोमन्यते हेअग्ने तेतुभ्यंहृदा हृदयेन तष्टं संस्कृतं ऋचा ऋग्रूपेणवर्तमानं हविः ऋचमेवहविःकृत्वा आभरामसि आहरामः तेइतितच्छब्देन प्रकृतमृग्रूपंहविःपरामृश्यते प्रतिनिर्दिश्यमानापेक्षयापुंस्त्वबहुत्वे ऋग्रूपंतद्धविः ते तुभ्यं उक्षणः उक्षाणः सेचनसमर्थाः ऋषभासः ऋषभाः उतापिच वशाश्चभवन्तु ऋषभवशारूपेणपरिणतंसत् त्वद्भक्षणाय भवत्वितिशेषः ॥ ४७ ॥