श्रवणम्

6.16.19
आग्निर᳚गामि॒ भार᳚तो वृत्र॒हा पु᳚रु॒चेत᳚नः ।
दिवो᳚दासस्य॒ सत्प᳚तिः ॥
▶ पदपाठः (Word-by-word)
आ । अ॒ग्निः । अ॒गा॒मि॒ । भार᳚तः । वृ॒त्र॒॑हा । पु॒रु॒॑चेत᳚नः ।
दिवः᳚॑दासस्य । सत्॑प᳚तिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः आ अगामि अस्माभिःस्तुतिभिरभ्यगम्यत कीदृशःभारतः हविषांभर्ता दिवोदासस्य एतत्संज्ञस्यराज्ञः वृत्रहा वृत्राणां- शत्रूणांहन्ता पुरुचेतनः पुरूणांबहुनांचेतयिताज्ञाता सर्वज्ञइत्यर्थः सत्पतिः सतांयजमानानांपालयिता ॥ १९ ॥