स नो᳚ म॒न्द्राभि᳚रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः ।
आ दे॒वान्व᳚क्षि॒ यक्षि᳚ च ॥
आ दे॒वान्व᳚क्षि॒ यक्षि᳚ च ॥
पदपाठः (Word-by-word)
सः । नः॒ । म॒न्द्राभिः᳚ । अ॒ध्व॒रे । जि॒ह्वाभिः᳚ । य॒ज॒ । म॒हः ।
आ । दे॒वान् । व॒क्षि॒ । यक्षि᳚ । च॒ ॥
आ । दे॒वान् । व॒क्षि॒ । यक्षि᳚ । च॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने सत्वं नोस्माकमध्वरेयज्ञे मन्द्राभिर्मदकरीभिः स्तुत्याभिर्वा जिह्वाभिः ज्वालाभिः महोमहतोदेवान् यज हविर्भिस्तर्पय कथंतदिति उच्यते देवान्यष्टव्यानिन्द्रादीन् आवक्षि आवह ततोयक्षिच यजच हवींषितेभ्योदेहीत्यर्थः ॥ २ ॥ पाथिकृत्यामग्नेः पथिकृतोनुवाक्या वेत्थेत्येषा सूत्रितंच—वेत्थाहिवेधोअध्वनआदेवानामपि पन्थामगन्मेति ।