श्रवणम्

6.16.20
स हि विश्वाति॒ पार्थि᳚वा र॒यिं दाश᳚न्महित्व॒ना ।
व॒न्वन्नवा᳚तो॒ अस्तृ᳚तः ॥
▶ पदपाठः (Word-by-word)
सः । हि । विश्वा᳚ । अति᳚ । पार्थि᳚वा । र॒यिम् । दाश᳚त् । म॒हि॒॑त्व॒ना ।
व॒न्वन् । अवा᳚तः । अस्तृ᳚तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहि सखल्वग्निः विश्वा विश्वानिसर्वाणि पार्थिवा पृथिव्यांभवानिभूतजातानि महित्वना महत्त्वेनस्वमहिम्ना अतिक्रामन् रयिं धनं दाशत् अस्मभ्यंददातु यद्वा विश्वं सर्वं पार्थिवं पृथिव्यां विद्यमानंधनं अतिशयेन दाशद्ददातु कीदृशोग्निः महित्वना महत्त्वेनतेजसा वन्वन् काष्ठानिशत्रून् वाहिंसन् अवातः अन्यैःशत्रुभिरप्रतिगतः अस्तृतः केनाप्यहिंसितः ॥ २० ॥