श्रवणम्

6.16.8
तव॒ प्र य᳚क्षि सं॒दृश᳚मु॒त क्रतुं᳚ सु॒दान᳚वः ।
विश्वे᳚ जुषन्त का॒मिनः᳚ ॥
▶ पदपाठः (Word-by-word)
तव᳚ । प्र । य॒क्षि॒ । स॒म्॑दृश᳚म् । उ॒त । क्रतु᳚म् । सु॒॑दान᳚वः ।
विश्वे᳚ । जु॒ष॒न्त॒ । का॒मिनः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तव संदृशं सम्यक्दर्शनीयं यद्वा सम्यग्द्रष्टारं सर्वस्यभासकंतेजः प्रयक्षि प्रयक्षे प्रकर्षेणपूजयामि उतापिच सुदानवः सुदानोः शोभनदानस्य तव क्रतुं कर्म प्रज्ञानंवा पूजयामि नकेवलमहगेव किंतु अन्येविश्वेसर्वेपि यजमानाः कामिनः त्वदनुग्रहात्तैस्तैःकामैरुपेताः सन्तः जुषन्त त्वदीयंसंदृशंक्रतुंचसेवन्ते ॥ ८ ॥