त्वं होता॒ मनु᳚र्हितो॒ वह्नि᳚रा॒सा वि॒दुष्ट᳚रः ।
अग्ने॒ यक्षि᳚ दि॒वो विशः᳚ ॥
अग्ने॒ यक्षि᳚ दि॒वो विशः᳚ ॥
पदपाठः (Word-by-word)
त्वम् । होता᳚ । मनुः᳚॑हितः । वह्निः᳚ । आ॒सा । वि॒दुः॑त᳚रः ।
अग्ने᳚ । यक्षि᳚ । दि॒वः । विशः᳚ ॥
अग्ने᳚ । यक्षि᳚ । दि॒वः । विशः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वंहोता होतृत्वेन मनुर्हितः मनुनाआहितोसि आसा आस्येन आस्यभूतयाज्वालया वह्निर्हविषांवोढा विदुष्टरः अतिशयेनवि- द्वान् अतःकारणात् त्वं दिवः द्युलोकसंबन्धिनीः विशः दैवीःप्रजाः यक्षि यज ॥ ९ ॥ दर्शपूर्णमासयोःसामिधेनीषु अग्न्आयाहीत्याद्यास्तिस्रः सूत्रितंच—अग्नआयाहिवीतयेगृणानईळेन्योनमस्यस्तिरइति । गार्हपत्याहव- नीययोर्मिथःसंसर्गे अग्नयेवीतयेष्टाकपालःपुरोडाशः तस्याग्नआयाहीत्येषानुवाक्या सूत्रितंच—अग्नआयाहिवीतयेयोअग्निंदेववीतयइति ।