उप᳚ त्वा र॒ण्वसं᳚दृशं॒ प्रय᳚स्वन्तः सहस्कृत ।
अग्ने᳚ ससृ॒ज्महे॒ गिरः᳚ ॥
अग्ने᳚ ससृ॒ज्महे॒ गिरः᳚ ॥
पदपाठः (Word-by-word)
उप᳚ । त्वा॒ । र॒ण्व॑स᳚न्दृशम् । प्रय᳚स्वन्तः । स॒हः॒॑कृ॒त॒ ।
अग्ने᳚ । स॒सृ॒ज्महे᳚ । गिरः᳚ ॥
अग्ने᳚ । स॒सृ॒ज्महे᳚ । गिरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेसहस्कृत सहसा बलेनोत्पन्नाग्ने प्रयस्वन्तःहविर्लक्षणान्नवन्तोवयं रण्वसन्दृशं रमणीयसंर्शनंस्तोतव्यसंदर्शनंर्शनंवात्वा त्वां उप प्रति गिरः स्तुतीः ससृज्महे विसृजामः उच्चारयामइत्यर्थः ॥ ३७ ॥