त्वाम᳚ग्ने॒ पुष्क᳚रा॒दध्यथ᳚र्वा॒ निर᳚मन्थत ।
मू॒र्ध्नो विश्व᳚स्य वा॒घतः᳚ ॥
मू॒र्ध्नो विश्व᳚स्य वा॒घतः᳚ ॥
पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । पुष्क᳚रात् । अधि᳚ । अथ᳚र्वा । निः । अ॒म॒न्थ॒त॒ ।
मू॒र्ध्नः । विश्व᳚स्य । वा॒घतः᳚ ॥
मू॒र्ध्नः । विश्व᳚स्य । वा॒घतः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने अथर्वा एतत्संज्ञऋषिः त्वां पुष्करादधि पुष्करपर्णेनिरमन्थत अरण्योः सकाशादजनयत् कीद्रुशात् पुष्करात् मूर्ध्नः मूर्धवद्धार- कात् विश्वस्य सर्वस्यजगतः वाघतोवाहकात् पुष्करपर्णेहिप्रजापतिःभूमिमप्रथयत् तत्पुष्करपर्णेप्रथयदितिश्रुतेः । भूमिश्चसर्वजगतआधा- रभूतेति पुष्करपर्णस्यसर्वजगद्धारकत्वं अत्र पुष्करशब्देनपुष्करपर्णमभिधीयते इत्येतच्चतैत्तिरीयकेविस्पष्टमाम्नातं—त्वामग्नेपुष्करादधी- त्याह पुष्करपर्णेह्येनमुपश्रुतमविन्ददिति ॥ १३ ॥