श्रवणम्

6.16.32
त्वं तं दे᳚व जि॒ह्वया॒ परि᳚ बाधस्व दु॒ष्कृत᳚म् ।
मर्तो॒ यो नो॒ जिघां᳚सति ॥
▶ पदपाठः (Word-by-word)
त्वम् । तम् । दे॒व॒ । जि॒ह्वया᳚ । परि᳚ । बा॒ध॒स्व॒ । दुः॒॑कृत᳚म् ।
मर्तः᳚ । यः । नः॒ । जिघां᳚सति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदेव द्योतमानाग्ने त्वं तं वक्ष्यमाणं दुष्कृतं दुष्कर्मकारिणंमनुष्यं जिह्वया ज्वालया परिबाधस्व सर्वतोजहि योमर्तोमनुष्यः नोस्मान् जिघांसति हन्तुमिच्छति ॥ ३२ ॥