ब्रह्म᳚ प्र॒जाव॒दा भ᳚र॒ जात᳚वेदो॒ विच᳚र्षणे ।
अग्ने॒ यद्दी॒दय᳚द्दि॒वि ॥
अग्ने॒ यद्दी॒दय᳚द्दि॒वि ॥
पदपाठः (Word-by-word)
ब्रह्म᳚ । प्र॒जा॑व᳚त् । आ । भ॒र॒ । जात᳚॑वेदः । वि॑च᳚र्षणे ।
अग्ने᳚ । यत् । दी॒दय᳚त् । दि॒वि ॥
अग्ने᳚ । यत् । दी॒दय᳚त् । दि॒वि ॥
सायणभाष्यम् (Sayana Commentary)
हेजातवेदः जातानांवेदितः विचर्षणे विशेषेणद्रष्टरग्ने प्रजावत् पुत्रपौत्रसहितंब्रह्मान्नमाभर आहर यद्ब्रह्म दिविद्युलोके दीदय- द्दीप्यते देवेषुमध्येयत्प्रशस्तमन्नं राजते तदाहरेत्यर्थः ॥ ३६ ॥