श्रवणम्

6.16.35
गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि᳚दिद्युता॒नो अ॒क्षरे᳚ ।
सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥
▶ पदपाठः (Word-by-word)
गर्भे᳚ । मा॒तुः । पि॒तुः । पि॒ता । वि॒॑दि॒द्यु॒ता॒नः । अ॒क्षरे᳚ ।
सीद᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रमातृपितृशब्दाभ्यां भूद्यौश्चाभिधीयेते द्यौः पिता पृथिवीमातेतिश्रुतेः मातुर्भूम्याः गर्भे गर्भस्थाने मध्ये अक्षरेक्षरणरहिते वेद्या- ख्येस्थानेविदिद्युतानः विशेषेणदीप्यमानः पितुः पिताद्युलोकस्य पालयिता हविषांप्रदानेन एवंभूतोग्निः ऋतस्य यज्ञस्य योनिं उत्तरवे- द्याख्यधिष्णयं सप्तम्यर्थेद्वितीया आसीदन् उत्तरवेद्यामुपविशन् अग्निर्वृत्राणि जंघनदित्यन्वयः ॥ ३५ ॥