अच्छा᳚ नो या॒ह्या व᳚हा॒भि प्रयां᳚सि वी॒तये᳚ ।
आ दे॒वान्त्सोम᳚पीतये ॥
आ दे॒वान्त्सोम᳚पीतये ॥
पदपाठः (Word-by-word)
अच्छ᳚ । नः॒ । या॒हि॒ । आ । व॒ह॒ । अ॒भि । प्रयां᳚सि । वी॒तये᳚ ।
आ । दे॒वान् । सोम᳚॑पीतये ॥
आ । दे॒वान् । सोम᳚॑पीतये ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने नोस्मान् अच्छाभिमुख्येनायाहि आगच्छ तथा प्रयांसि हविर्लक्षणान्यन्नान्यभिलक्ष्य देवानावह किमर्थं वीतये तेषांहविषांस्वा- दनार्थं तथा सोमपीतये सोमपानार्थंच तान् देवानावह ॥ ४४ ॥