त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते ।
भ॒रद्वा᳚जाय दा॒शुषे᳚ ॥
भ॒रद्वा᳚जाय दा॒शुषे᳚ ॥
पदपाठः (Word-by-word)
त्वम् । इ॒मा । वार्या᳚ । पु॒रु । दिवः᳚॑दासाय । सु॒न्व॒ते ।
भ॒रत्॑वा᳚जाय । दा॒शुषे᳚ ॥
भ॒रत्॑वा᳚जाय । दा॒शुषे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वं इमा इमानि दृश्यमानानि पुरु पुरूणि बहूनि वार्या वार्याणिवरणीयानिसंभजनीयानिधनानि दिवोदासाय सुन्वते लुप्तो- पममेतत् यथासोमाभिषवंकुर्वतेदिवोदासाख्यायराज्ञे प्रादाः तथा दाशुषे हवींषिदत्तवतेभरद्वाजायऋषये देहीतिशेषः ॥ ५ ॥