श्रवणम्

6.16.14
तमु᳚ त्वा द॒ध्यङ्ङृषि᳚ः पु॒त्र ई᳚धे॒ अथ᳚र्वणः ।
वृ॒त्र॒हणं᳚ पुरंद॒रम् ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । द॒ध्यङ् । ऋषिः᳚ । पु॒त्रः । ई॒धे॒ । अथ᳚र्वणः ।
वृ॒त्र॒॑हन᳚म् । पु॒र॒म्॑द॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने यउक्तगुणः तमु तमेव त्वामथर्वणःपुत्रोदध्यङ्एतत्संज्ञऋषिः ईधेदीपितवान् कीदृशं वृत्रहणं आवरकाणांशत्रूणांहन्तारं पुरंदरं असुरपुराणांदारयितारम् ॥ १४ ॥