श्रवणम्

6.16.38
उप᳚ च्छा॒यामि᳚व॒ घृणे॒रग᳚न्म॒ शर्म᳚ ते व॒यम् ।
अग्ने॒ हिर᳚ण्यसंदृशः ॥
▶ पदपाठः (Word-by-word)
उप᳚ । छा॒याम्॑इ᳚व । घृणेः᳚ । अग᳚न्म । शर्म᳚ । ते॒ । व॒यम् ।
अग्ने᳚ । हिर᳚ण्य॑सन्दृशः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने हिरण्यसंदृशः हितरणीयतेजसः हिरण्यवत् रोचमानतेजसोवा घृणेर्दीप्तस्य ते तव शर्म शरणं आश्रयणं उपागन्म उपगच्छाम तत्रदृष्टान्तः छायामिव यथाघर्मार्ताः संतप्ताः छायामुपगच्छन्ति तद्वत् ॥ ३८ ॥ उपस दिप्रातः कालस्याग्नेयस्ययउग्रइवेतियाज्या सायंकालीनस्यत्वैषैवानुवाक्या सूत्रितंच—अग्निर्वृत्राणिजंघनद्यउग्रइवशर्यहेति ।