श्रवणम्

6.16.46
वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा᳚न् ।
होता᳚रं सत्य॒यजं॒ रोद᳚स्योरुत्ता॒नह᳚स्तो॒ नम॒सा वि᳚वासेत् ॥
▶ पदपाठः (Word-by-word)
वी॒ती । यः । दे॒वम् । मर्तः᳚ । दु॒व॒स्येत् । अ॒ग्निम् । ई॒ळी॒त॒ । अ॒ध्व॒रे । ह॒विष्मा᳚न् ।
होता᳚रम् । स॒त्य॒॑यज᳚म् । रोद᳚स्योः । उ॒त्ता॒न॑ह᳚स्तः । नम᳚सा । आ । वि॒वा॒से॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योमर्तोमनुष्योहविष्मान् हविर्भिर्युक्तोयजमानोवीती वीत्याकान्तेन हविर्लक्षणेनान्नेन यंकंचनदेवं दुवस्येत् परिचरेत् तस्मिन्नध्वरे यज्ञे अग्निमीळीत स्तुवीत सर्वेषुयागेष्वग्निः पूज्यतइत्यर्थः कीदृशमग्निं रोदस्योर्द्यावापृथिव्योर्लोकद्वये वर्तमानानांहोतारमाह्वातारं सत्य- यजं सत्येन अवितथेनहविषा यष्टारं किंचायंयजमानः ईदृशमग्निं उत्तानहस्तः कृतांजलिपुटः सन् नमसा नमस्कारेण हविषावा आविवा- सेत् परिचरेत् ॥ ४६ ॥