सु॒वीरं᳚ र॒यिमा भ᳚र॒ जात᳚वेदो॒ विच᳚र्षणे ।
ज॒हि रक्षां᳚सि सुक्रतो ॥
ज॒हि रक्षां᳚सि सुक्रतो ॥
पदपाठः (Word-by-word)
सु॒॑वीर᳚म् । र॒यिम् । आ । भ॒र॒ । जात᳚॑वेदः । वि॑च᳚र्षणे ।
ज॒हि । रक्षां᳚सि । सु॒॑क्र॒तो॒ इति᳚ सु॑क्रतो ॥
ज॒हि । रक्षां᳚सि । सु॒॑क्र॒तो॒ इति᳚ सु॑क्रतो ॥
सायणभाष्यम् (Sayana Commentary)
हेजातवेदः जातप्रज्ञान जातधनवा विचर्षणे विशेषेणद्रष्टरग्ने सुवीरं शोभनैःवीरैः पुत्रपौत्रादिभिरुपेतं रयिं धनं आभर आहर तथा हेसुक्रतो सुकर्मन्नग्ने रक्षांसिच जहि विनाशय ॥ २९ ॥