वेत्था॒ हि वे᳚धो॒ अध्व᳚नः प॒थश्च᳚ दे॒वाञ्ज᳚सा ।
अग्ने᳚ य॒ज्ञेषु᳚ सुक्रतो ॥
अग्ने᳚ य॒ज्ञेषु᳚ सुक्रतो ॥
पदपाठः (Word-by-word)
वेत्थ᳚ । हि । वे॒धः॒ । अध्व᳚नः । प॒थः । च॒ । दे॒व॒ । अञ्ज᳚सा ।
अग्ने᳚ । य॒ज्ञेषु᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ॥
अग्ने᳚ । य॒ज्ञेषु᳚ । सु॒क्र॒तो॒ इति᳚ सु॑क्रतो ॥
सायणभाष्यम् (Sayana Commentary)
हेवेधः विधातः सुक्रतो शोभनकर्मन् देव दानादिगुणयुक्ताग्ने त्वं यज्ञेषु दर्शपूर्णमासादियागेषु अध्वनोमहामार्गान् पथश्चक्षुद्रमार्गांश्च अंजसा जवेन वेत्थ जानासि हियस्मादेवं तस्मात् कारणात् यज्ञमार्गाद्धृष्टंयजमानं पुनस्तंमार्गंप्रापयेत्यर्थः ॥ ३ ॥