भ॒रद्वा᳚जाय स॒प्रथ॒ः शर्म᳚ यच्छ सहन्त्य ।
अग्ने॒ वरे᳚ण्यं॒ वसु᳚ ॥
अग्ने॒ वरे᳚ण्यं॒ वसु᳚ ॥
पदपाठः (Word-by-word)
भ॒रत्॑वा᳚जाय । स॒॑प्रथः᳚ । शर्म᳚ । य॒च्छ॒ । स॒ह॒न्त्य॒ ।
अग्ने᳚ । वरे᳚ण्यम् । वसु᳚ ॥
अग्ने᳚ । वरे᳚ण्यम् । वसु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेसहन्त्य शत्रूणामभिभवितरग्ने भरद्वाजायमह्यमृषये सप्रथः सर्वतःपृथुविस्तीर्णं शर्म सुखं गृहंवा यच्छ देहि तथावरेण्यं वरणीयं वसु धनंच देहि ॥ ३३ ॥ पौर्णमास्यामाग्नेयाज्यभागस्यानुवाक्याअग्निर्वृत्राणीत्येषा सूत्रितंच—अग्निर्वृत्राणीजंघनदितिपूर्वस्याज्यभागस्यानुवाक्येइति । इष्टि- पशुसोमेषुच यत्र वृधन्वन्तौ पुष्टिमन्तावित्यादिविशेषविधिर्नदृश्यते तत्र सर्वत्र एषैवप्रथमाज्यभागानुवाक्या उपसद्याग्नेयस्यैषानुवाक्या सायंकालीनस्यतु एषैवयाज्या सूत्रितंच—अग्निर्वृत्राणिजंघनद्यउग्रइवशर्यहेति विपर्यासोयाज्यानुवाक्यानामिति ।