प्र वः᳚ सखायो अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च᳚ धृष्णु॒या ।
अर्च॒ गाय᳚ च वे॒धसे᳚ ॥
अर्च॒ गाय᳚ च वे॒धसे᳚ ॥
पदपाठः (Word-by-word)
प्र । वः॒ । स॒खा॒यः॒ । अ॒ग्नये᳚ । स्तोम᳚म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒॑या ।
अर्च᳚ । गाय᳚ । च॒ । वे॒धसे᳚ ॥
अर्च᳚ । गाय᳚ । च॒ । वे॒धसे᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेसखायः समानख्यानाः ऋत्विजः वोयूयं धृष्णुया शत्रूणांधर्षकाय वेधसे विधात्रे अग्नये स्तोमं स्तोत्रं गाय गायत तथा यज्ञं यजनसा- धनं हविश्च प्रार्च प्रयच्छ ॥ २२ ॥