श्रवणम्

6.16.17
यत्र॒ क्व᳚ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त᳚रम् ।
तत्रा॒ सदः᳚ कृणवसे ॥
▶ पदपाठः (Word-by-word)
यत्र᳚ । क्व᳚ । च॒ । ते॒ । मनः᳚ । दक्ष᳚म् । द॒ध॒से॒ । उत्॑त᳚रम् ।
तत्र᳚ । सदः᳚ । कृ॒ण॒व॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने ते तव मनः अनुग्रहात्मकमन्तः करणं यत्र य्स्मिन्देशे क्वच कस्मिंश्चिद्यजमानेवर्तते तत्र तस्मिन्यजमाने उत्तरमुद्धततरं श्रेष्ठं दक्षं बलं बलकरमन्नंवा दधसे धारयसि तथा सदः स्थानंच कृणवसे तस्मिन्यजमानेकरोषि ॥ १७ ॥