अ॒ग्निर्वृ॒त्राणि᳚ जङ्घनद्द्रविण॒स्युर्वि᳚प॒न्यया᳚ ।
समि᳚द्धः शु॒क्र आहु᳚तः ॥
समि᳚द्धः शु॒क्र आहु᳚तः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । वृ॒त्राणि᳚ । ज॒ङ्घ॒न॒त् । द्र॒वि॒ण॒स्युः । वि॒प॒न्यया᳚ ।
सम्॑इ᳚द्धः । शु॒क्रः । आ॑हु᳚तः ॥
सम्॑इ᳚द्धः । शु॒क्रः । आ॑हु᳚तः ॥
सायणभाष्यम् (Sayana Commentary)
विपन्यया स्तुत्या स्तूयमानः द्रविणस्युर्द्रविणंधनंस्तोतॄणांइच्छन् यद्वा हविर्लक्षणं धनमात्मनइच्छन् अग्निर्वृत्राण्यावरकाणि रक्षःप्रभृतीनि तमांसिवाजंघनत् भृशंहन्तु कीदृशोग्निः समिद्धः सम्यग्दीप्तः अतएव शुक्रः शुक्लवर्णः आहुतः हविर्भिरभिहुतः ॥ ३४ ॥