श्रवणम्

6.16.15
तमु᳚ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त᳚मम् ।
ध॒नं॒ज॒यं रणे᳚रणे ॥
▶ पदपाठः (Word-by-word)
तम् । ऊं॒ इति᳚ । त्वा॒ । पा॒थ्यः । वृषा᳚ । सम् । ई॒धे॒ । द॒स्यु॒हन्॑त᳚मम् ।
ध॒न॒म्॑ज॒यम् । रणे᳚॑रणे ॥
▶ सायणभाष्यम् (Sayana Commentary)

पाथ्योवृषानामकश्चिदृषिः तमु तमेव त्वा त्वां हेअग्ने समीधे समैंध समदीपयत् कीदृशं दृस्युहन्तमं अतिशयेन दस्यूनां उपक्षपयि- तॄणां शत्रूणां हन्तारं रणेरणे युद्धेयुद्धे धनंजयं धनानांजेतारम् ॥ १५ ॥ उक्थ्येक्रतौ तृतीयसवने मित्रावरुणस्य एह्यूष्वित्यादिकौतृचौस्तोतृयानुरूपौ आभिप्लविकेषुउक्थ्येषुतु एतौवैकल्पिकौस्तोत्रियानु- रूपौ आभिप्लविकेषुउक्थ्येषु सूत्रितंच—एह्यूषुब्रवा णितआग्निरगामिभारतइति पौनराधेयिक्यामिष्टौ उत्तराज्यभागस्य एह्यूष्वित्य- नुवाक्या सूत्रितंच—एह्यूषुब्रवाणितइत्याग्नेयावाज्यभागाविति ।