न॒हि ते᳚ पू॒र्तम᳚क्षि॒पद्भुव᳚न्नेमानां वसो ।
अथा॒ दुवो᳚ वनवसे ॥
अथा॒ दुवो᳚ वनवसे ॥
पदपाठः (Word-by-word)
न॒हि । ते॒ । पू॒र्तम् । अ॒क्षि॒॑पत् । भुव᳚त् । ने॒मा॒ना॒म् । व॒सो॒ इति᳚ ।
अथ᳚ । दुवः᳚ । व॒न॒व॒से॒ ॥
अथ᳚ । दुवः᳚ । व॒न॒व॒से॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने तेत्वदीयं पूर्तं पूरकं तेजः अक्षिपत् अक्ष्णोःपातकं विनाशकं नहिभुवत् नभवतु सर्वदास्माकं दर्शनसामर्थ्यंकरोतु हेनेमानांवसो नेमशब्दःअल्पवाची मनुष्याणांमध्येकतिपयानां यजमानानांवासक अथ अतःकारणात् दुवः अस्माभिर्यजमानैःकृतंपरिचरणं वनवसे संभजस्व ॥ १८ ॥