वस्वी᳚ ते अग्ने॒ संदृ᳚ष्टिरिषय॒ते मर्त्या᳚य ।
ऊर्जो᳚ नपाद॒मृत᳚स्य ॥
ऊर्जो᳚ नपाद॒मृत᳚स्य ॥
पदपाठः (Word-by-word)
वस्वी᳚ । ते॒ । अ॒ग्ने॒ । सम्॑दृ᳚ष्टिः । इ॒ष॒॑य॒ते । मर्त्या᳚य ।
ऊर्जः᳚ । न॒पा॒त् । अ॒मृत᳚स्य ॥
ऊर्जः᳚ । न॒पा॒त् । अ॒मृत᳚स्य ॥
सायणभाष्यम् (Sayana Commentary)
हेऊर्जोनपात् बलस्यपुत्राग्ने अमृतस्य मरणरहितस्य ते तव संदृष्टिः दीप्तिः वस्वीवासयित्री प्रशस्येत्यर्थः सा मर्त्याय मनुष्याय यजमा- नाय इषयते इषमन्नमिच्छति ददातीत्यर्थः ॥ २५ ॥