श्रवणम्

6.16.27
ते ते᳚ अग्ने॒ त्वोता᳚ इ॒षय᳚न्तो॒ विश्व॒मायु᳚ः ।
तर᳚न्तो अ॒र्यो अरा᳚तीर्व॒न्वन्तो᳚ अ॒र्यो अरा᳚तीः ॥
▶ पदपाठः (Word-by-word)
ते । ते॒ । अ॒ग्ने॒ । त्वा॑ऊ᳚ताः । इ॒षय᳚न्तः । विश्व᳚म् । आयुः᳚ ।
तर᳚न्तः । अ॒र्यः । अरा᳚तीः । व॒न्वन्तः᳚ । अ॒र्यः । अरा᳚तीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने ते त्वदीयाः ये त्वांस्तुवन्ति ते स्तोतारः त्वोतास्त्वयाऊतारक्षिताः अतएव इषयन्तः इषमात्मनइच्छन्तः सन्तः विश्वं सर्वं आयुरन्नं लभन्तइतिशेषः आयुरेववाशतवर्षलक्षणमिषयन्तः इच्छन्तः प्राप्नुवन्तीतिशेषः तथाअर्यः अरातीरभिगन्त्रीःअरातीः काश्चिच्छ- त्रुसेनाः तरन्तः अतिक्रामन्तः अर्योभिगन्त्रीः अरातीः काश्चनशत्रुसेनाः वन्वन्तोहिंसंतश्च भवन्तीतिशेषः ॥ २७ ॥