श्रवणम्

6.16.45
उद᳚ग्ने भारत द्यु॒मदज᳚स्रेण॒ दवि᳚द्युतत् ।
शोचा॒ वि भा᳚ह्यजर ॥
▶ पदपाठः (Word-by-word)
उत् । अ॒ग्ने॒ । भा॒र॒त॒ । द्यु॒॑मत् । अज᳚स्रेण । दवि᳚द्युतत् ।
शोच᳚ । वि । भा॒हि॒ । अ॒ज॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेभारत हविषांभर्तग्ने उच्छोच उद्गततरंदीप्यस्व तदेवविवृणोति हेअजर जरारहिताग्ने दविद्युतत् भृशंद्योतमानस्त्वं द्युमत् द्युमता- दीप्तिमता सुपांसुलुगितितृतीयायालुक् अजस्रेणाविच्छेदेनतेजसा विभाहि विशेषेणप्रकाशयस्व यद्वा भातिरत्रांतर्णीतण्यर्थः त्वं प्रथममु- द्दीप्यस्व पश्चादात्मीयेनतेजसा सर्वंजगत्प्रकाशयेतियोजनीयम् ॥ ४५ ॥