श्रवणम्

6.16.31
यो नो᳚ अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश᳚ति ।
तस्मा᳚न्नः पा॒ह्यंह᳚सः ॥
▶ पदपाठः (Word-by-word)
यः । नः॒ । अ॒ग्ने॒ । दुः॒॑एवः᳚ । आ । मर्तः᳚ । व॒धाय᳚ । दाश᳚ति ।
तस्मा᳚त् । नः॒ । पा॒हि॒ । अंह᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने दुरेवोदुष्टाभिप्रायोमर्तोमनुष्यः वधाय स्वस्ययुधाय नोस्मान् आदाशति अभिप्रयच्छति आयुधेनास्मान् हन्तीत्यर्थः तस्मान्म- नष्यात् अंहसः पापाच्च नोस्मान्पाहिरक्षा ॥ ३१ ॥