त्वं नः᳚ पा॒ह्यंह᳚सो॒ जात᳚वेदो अघाय॒तः ।
रक्षा᳚ णो ब्रह्मणस्कवे ॥
रक्षा᳚ णो ब्रह्मणस्कवे ॥
पदपाठः (Word-by-word)
त्वम् । नः॒ । पा॒हि॒ । अंह᳚सः । जात᳚॑वेदः । अ॒घ॒॑य॒तः ।
रक्ष᳚ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥
रक्ष᳚ । नः॒ । ब्र॒ह्म॒णः॒ । क॒वे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेजातवेदस्त्वन्नोस्मान् अंहसः पापात् पाहि रक्ष तथा हेब्रह्मणस्कवे स्तुतिरूपस्यमंत्रस्यकवे कावयितः शब्दयितरग्ने अग्निर्हिशब्दमु- त्पादयति तथाच स्मर्यते—मनःकायाग्निमाहन्तिसप्रेरयतिमारुतम् । मारुतस्तूरसिचरन् मन्द्रंजनयतिस्वरमिति । तादृशाग्ने अघायतः अघमनर्थं अस्माकमिच्छतः शत्रोश्च नोस्मान्त्रक्ष ॥ ३० ॥