प्र व॒ इन्द्रा᳚य॒ माद᳚नं॒ हर्य᳚श्वाय गायत ।
सखा᳚यः सोम॒पाव्ने᳚ ॥
सखा᳚यः सोम॒पाव्ने᳚ ॥
पदपाठः (Word-by-word)
प्र । वः॒ । इन्द्रा᳚य । माद᳚नम् । हरि᳚॑अश्वाय । गा॒य॒त॒ ।
सखा᳚यः । सो॒म॒॑पाव्ने᳚ ॥
सखा᳚यः । सो॒म॒॑पाव्ने᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे शखायो वोयूयं हर्यश्वाय सोमपाव्ने सोमानां पात्रे इन्द्राय मादनं मदकरं स्तोत्रं प्रगायत ॥ १ ॥