प्र वो᳚ म॒हे म᳚हि॒वृधे᳚ भरध्वं॒ प्रचे᳚तसे॒ प्र सु᳚म॒तिं कृ᳚णुध्वम् ।
विशः᳚ पू॒र्वीः प्र च᳚रा चर्षणि॒प्राः ॥
विशः᳚ पू॒र्वीः प्र च᳚रा चर्षणि॒प्राः ॥
पदपाठः (Word-by-word)
प्र । वः॒ । म॒हे । म॒हि॒॑वृधे᳚ । भ॒र॒ध्व॒म् । प्र॑चे᳚तसे । प्र । सु॒॑म॒तिम् । कृ॒णु॒ध्व॒म् ।
विशः᳚ । पू॒र्वीः । प्र । च॒र॒ । च॒र्ष॒णि॒॑प्राः ॥
विशः᳚ । पू॒र्वीः । प्र । च॒र॒ । च॒र्ष॒णि॒॑प्राः ॥
सायणभाष्यम् (Sayana Commentary)
हे मदीयाः पुरुषाः वोयूयं महिवृधे महतां धनानां वर्धयित्रे महे महते इन्द्राय प्रभरध्वं सोमन्प्रणयत । प्रचेतसे प्रकृष्टमतये इन्द्राय सुमतिं सुष्टुतिं च प्रकृणुध्वं प्रकुरुत । अथ प्रत्यक्षस्तुतिः हे इन्द्र चर्षणिप्राः कामैः प्रजानां पूरयिता त्वं पूर्वीः हविषां पूरयित्रीर्विशः प्रजाः प्रचर अभिगच्छ ॥ १० ॥