श्रवणम्

7.31.9
ऊ॒र्ध्वास॒स्त्वान्विन्द᳚वो॒ भुव᳚न्द॒स्ममुप॒ द्यवि᳚ ।
सं ते᳚ नमन्त कृ॒ष्टयः᳚ ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वासः᳚ । त्वा॒ । अनु᳚ । इन्द᳚वः । भुव᳚न् । द॒स्मम् । उप᳚ । द्यवि᳚ ।
सम् । ते॒ । न॒म॒न्त॒ । कृ॒ष्टयः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र उपद्यवि द्युलोकसमीपे स्थितं दस्मं दर्शनीयं त्वा त्वां अनूद्दिश्य ऊर्ध्वासः ऊर्ध्वा इन्दवःअस्मदीयाः सोमाः भुवन् भवन्ती । कृष्टयः प्रजाश्च ते तुभ्यं सन्नमन्त । भुवि सोमास्त्वदर्थमेव जायन्ते । प्रजाश्च त्वामेव प्रणमन्तीतीन्द्रस्तुतिः ॥ ९ ॥