श्रवणम्

7.31.8
तं त्वा᳚ म॒रुत्व᳚ती॒ परि॒ भुव॒द्वाणी᳚ स॒याव᳚री ।
नक्ष᳚माणा स॒ह द्युभि᳚ः ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । म॒रुत्व᳚ती । परि᳚ । भुव᳚त् । वाणी᳚ । स॒॑याव᳚री ।
नक्ष᳚माणा । स॒ह । द्यु॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र तमुक्तगुणविशिष्टं त्वा त्वां सयावरी त्वयासहगंत्री यत्रयत्र त्वं यासि तत्रतत्र यांतीत्यर्थः द्युभिस्तेजोभिः सह नक्षमाणा व्याप्नुव- न्ती मरुत्वती मरुतः स्तोतारः तद्वती वाणी स्तुतिः परिभुवत् परिभवतु परिभवतिरत्रपरिग्रहार्थीयः परिगृह्णात्वित्यर्थः ॥ ८ ॥