उ॒रु॒व्यच᳚से म॒हिने᳚ सुवृ॒क्तिमिन्द्रा᳚य॒ ब्रह्म᳚ जनयन्त॒ विप्रा᳚ः ।
तस्य᳚ व्र॒तानि॒ न मि᳚नन्ति॒ धीरा᳚ः ॥
तस्य᳚ व्र॒तानि॒ न मि᳚नन्ति॒ धीरा᳚ः ॥
पदपाठः (Word-by-word)
उ॒रु॒॑व्यच᳚से । म॒हिने᳚ । सु॒॑वृ॒क्तिम् । इन्द्रा᳚य । ब्रह्म᳚ । ज॒न॒य॒न्त॒ । विप्राः᳚ ।
तस्य᳚ । व्र॒तानि᳚ । न । मि॒न॒न्ति॒ । धीराः᳚ ॥
तस्य᳚ । व्र॒तानि᳚ । न । मि॒न॒न्ति॒ । धीराः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
उरुव्यचसे पृथुव्याप्तये महिने महते यस्माइन्द्राय सुवृक्तिं स्तुतिं ब्रह्म अन्नं हविश्च विप्राः प्राज्ञाः जनयन्त जनयन्ति तस्येन्द्रस्य व्रतानि रक्षणादीनि कर्माणि धीराः प्राज्ञाः देवाः अपि च मिनन्ति हिंसन्ति ॥ ११ ॥