मा नो᳚ नि॒दे च॒ वक्त᳚वे॒॑र्यो र᳚न्धी॒ररा᳚व्णे ।
त्वे अपि॒ क्रतु॒र्मम᳚ ॥
त्वे अपि॒ क्रतु॒र्मम᳚ ॥
पदपाठः (Word-by-word)
मा । नः॒ । नि॒दे । च॒ । वक्त᳚वे । अ॒र्यः । र॒न्धीः॒ । अरा᳚व्णे ।
त्वे इति᳚ । अपि᳚ । क्रतुः᳚ । मम᳚ ॥
त्वे इति᳚ । अपि᳚ । क्रतुः᳚ । मम᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे इन्द्र अर्यः स्वामी त्वं वक्तवे परुषवाक्यानां वक्त्वे निदे निन्दित्रे अराव्णे अदात्रे च नोस्मान् मारन्धीः वशं माकार्षीः । अपि अपिच ते त्वयि मम क्रतुः मदीयं स्तोत्रलक्षणं कर्म गच्छत्वितिशेषः अस्मदीयं स्तोत्रं भवच्चित्ते प्रविशत्वित्यर्थः ॥ ५ ॥