श्रवणम्

7.31.6
त्वं वर्मा᳚सि स॒प्रथः᳚ पुरोयो॒धश्च᳚ वृत्रहन् ।
त्वया॒ प्रति᳚ ब्रुवे यु॒जा ॥
▶ पदपाठः (Word-by-word)
त्वम् । वर्म᳚ । अ॒सि॒ । स॒॑प्रथः᳚ । पु॒रः॒॑यो॒धः । च॒ । वृ॒त्र॒॑ह॒न् ।
त्वया᳚ । प्रति᳚ । ब्रु॒वे॒ । यु॒जा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे वृत्रहन् शत्रूणां हिंसकेन्द्र त्वं वर्म अस्माकं कवचमसि कवचवद्रक्षकोसीत्यर्थः । सप्रथः सर्वतः पृथुश्चासि पुरोयोधश्च पुरोयोद्धाचासि त्वया युजा त्वया सहायेन प्रति ब्रुवे शत्रून् प्रति ब्रवीमि प्रतिहन्मीत्यर्थः ॥ ६ ॥