व॒यमि᳚न्द्र त्वा॒यवो॒॑भि प्र णो᳚नुमो वृषन् ।
वि॒द्धी त्व१॒᳚स्य नो᳚ वसो ॥
वि॒द्धी त्व१॒᳚स्य नो᳚ वसो ॥
पदपाठः (Word-by-word)
व॒यम् । इ॒न्द्र॒ । त्वा॒॑यवः᳚ । अ॒भि । प्र । नो॒नु॒मः॒ । वृ॒ष॒न् ।
वि॒द्धि । तु । अ॒स्य । नः॒ । व॒सो॒ इति᳚ ॥
वि॒द्धि । तु । अ॒स्य । नः॒ । व॒सो॒ इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे वृषन् कामानां वर्षितरिन्द्र त्वायवः त्वत्कामाः वयं वसिष्ठाः त्वामभि प्रणोनुमः प्रकर्षेण स्तुमः । हे वसो वासयितरिन्द्र अस्य इदं नः अस्मदीयं स्तोत्रं तु क्षिप्रं विद्धि अवधारय ॥ ४ ॥