शंसेदु॒क्थं सु॒दान᳚व उ॒त द्यु॒क्षं यथा॒ नरः᳚ ।
च॒कृ॒मा स॒त्यरा᳚धसे ॥
च॒कृ॒मा स॒त्यरा᳚धसे ॥
पदपाठः (Word-by-word)
शंस᳚ । इत् । उ॒क्थम् । सु॒॑दान᳚वे । उ॒त । द्यु॒क्षम् । यथा᳚ । नरः᳚ ।
च॒कृ॒म । स॒त्य॑रा᳚धसे ॥
च॒कृ॒म । स॒त्य॑रा᳚धसे ॥
सायणभाष्यम् (Sayana Commentary)
उतापि च हे स्तोतः सुदानवे शोभनदानाय सत्यराधसे सत्यधनायेन्द्राय उक्थं स्तोमं यथा नरोन्ये स्तोतारः द्युक्षं दीप्तेः साधनभूतं स्तोत्रं शंसन्ति तद्वत् त्वमपि शंस उच्चारय । इदितिपूरणः वयं चकृम स्तोत्रं करवाम ॥ २ ॥