श्रवणम्

9.111.1
अ॒या रु॒चा हरि᳚ण्या पुना॒नो विश्वा॒ द्वेषां᳚सि तरति स्व॒युग्व᳚भि॒ः सूरो॒ न स्व॒युग्व᳚भिः ।
धारा᳚ सु॒तस्य᳚ रोचते पुना॒नो अ᳚रु॒षो हरि᳚ः ।
विश्वा॒ यद्रू॒पा प᳚रि॒यात्यृक्व᳚भिः स॒प्तास्ये᳚भि॒रृक्व᳚भिः ॥
▶ पदपाठः (Word-by-word)
अ॒या । रु॒चा । हरि᳚ण्या । पु॒ना॒नः । विश्वा᳚ । द्वेषां᳚सि । त॒र॒ति॒ । स्व॒युग्व᳚॑भिः । सूरः᳚ । न । स्व॒युग्व᳚॑भिः ।
धारा᳚ । सु॒तस्य᳚ । रो॒च॒ते॒ । पु॒ना॒नः । अ॒रु॒षः । हरिः᳚ ।
विश्वा᳚ । यत् । रू॒पा । प॒रि॒॑याति᳚ । ऋक्व᳚॑भिः । स॒प्त॑आ᳚स्येभिः । ऋक्व᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानः पूयमानः सोमः हरिण्या हरितवर्णया अया अनया रुचा रोचमानया धार- या विश्वा सर्वाणि द्वेषांसि द्वेष्टृणि रक्षांसि तरति विनाशयति । तत्र दृष्टान्तः—सूरोन यथा सूर्यः स्वयुग्वभिः स्वयं युक्तैः रश्मिभिस्तमांसि हिनस्ति तद्वत् स्वयुग्वभिरिति द्विरु- क्तिरादरार्था । यद्वा धारया युक्तः सोमः स्वीयैर्युक्तैस्तेजोभिः रक्षांसि तरति तस्य सुतस्या भिषुतस्य सोमस्य धारा रोचते दीप्यते । पुनानः पूयमानः हरिर्हरितवर्णः सोमः अरुषः आरोचमानोभवति यत् यः सोमः सप्तास्येभिः रसहरणशीलास्यैः ऋक्वभिः स्तुतिमद्भिः ऋक्वभिस्तेजोभिः विश्वा विश्वानि व्याप्तानि रूपा रूपाणि नक्षत्राणि परियाति गच्छति व्याप्नोति ॥ १ ॥