श्रवणम्

9.111.3
पूर्वा॒मनु᳚ प्र॒दिशं᳚ याति॒ चेकि᳚त॒त्सं र॒श्मिभि᳚र्यतते दर्श॒तो रथो॒ दैव्यो᳚ दर्श॒तो रथः᳚ ।
अग्म᳚न्नु॒क्थानि॒ पौंस्येन्द्रं॒ जैत्रा᳚य हर्षयन् ।
वज्र᳚श्च॒ यद्भव᳚थो॒ अन᳚पच्युता स॒मत्स्वन᳚पच्युता ॥
▶ पदपाठः (Word-by-word)
पूर्वा᳚म् । अनु᳚ । प्र॒॑दिश᳚म् । या॒ति॒ । चेकि᳚तत् । सम् । र॒श्मि॑भिः᳚ । य॒त॒ते॒ । द॒र्श॒तः । रथः᳚ । दैव्यः᳚ । द॒र्श॒तः । रथः᳚ ।
अग्म᳚न् । उ॒क्थानि᳚ । पौंस्या᳚ । इन्द्र᳚म् । जैत्रा᳚य । ह॒र्ष॒य॒न् ।
वज्रः᳚ । च॒ । यत् । भव᳚थः । अन᳚प॑च्युता । स॒मत्॑सु᳚ । अन᳚प॑च्युता ॥
▶ सायणभाष्यम् (Sayana Commentary)

चेकितत् जानानः सोमः पूर्वां प्राचीं प्रदिशं प्रकृष्टां दिशं अनुयाति अनुगच्छति । किंच दर्शतः सर्वैर्दर्शनीयः दैव्यः देवेषु भवः तव रथः सूर्यरश्मिभिः संयतते संगच्छते पुनर्दर्शतोरथइत्यादरार्थे । ततः पौंस्या पुंस्त्वावगमानि उक्थानि स्तोत्राण्यग्मन् इन्द्रं गच्छन्ति तथा जैत्राय जयार्थं तानि स्तोत्राणि इन्द्रं हर्षयन् हर्षयन्ति । तथा तस्य वज्रश्च तमिन्द्रं गच्छति । यद्यदा समत्सु संग्रामेषु अनपच्युता अनपच्युतौ शत्रुभिः अपराजितौ सोमश्च त्वंच इन्द्रश्च युवां सहभवथः तदा स्तोत्रागमनादीनि भवन्ति पुन- रनपच्युतेत्यादरार्था ॥ ३ ॥

नानानमिति चतुरृचं नवमं सूक्तं आंगिरसस्य शिशुनाम्नआर्षं पंचपदापंक्तिश्छन्दः पव- मानः सोमोदेवता । तथाचानुक्रान्तं –नानानं चतुष्कं शिशुः पांक्तंहीति । गतोविनियोगः ।