त्वं त्यत्प᳚णी॒नां वि᳚दो॒ वसु॒ सं मा॒तृभि᳚र्मर्जयसि॒ स्व आ दम᳚ ऋ॒तस्य᳚ धी॒तिभि॒र्दमे᳚ ।
प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण᳚न्ति धी॒तयः᳚ ।
त्रि॒धातु᳚भि॒ररु᳚षीभि॒र्वयो᳚ दधे॒ रोच᳚मानो॒ वयो᳚ दधे ॥
प॒रा॒वतो॒ न साम॒ तद्यत्रा॒ रण᳚न्ति धी॒तयः᳚ ।
त्रि॒धातु᳚भि॒ररु᳚षीभि॒र्वयो᳚ दधे॒ रोच᳚मानो॒ वयो᳚ दधे ॥
पदपाठः (Word-by-word)
त्वम् । त्यत् । प॒णी॒नाम् । वि॒दः॒ । वसु᳚ । सम् । मा॒तृ॑भिः᳚ । म॒र्ज॒य॒सि॒ । स्वे । आ । दमे᳚ । ऋ॒तस्य᳚ । धी॒ति॑भिः᳚ । दमे᳚ ।
प॒रा॒॑वतः᳚ । न । साम᳚ । तत् । यत्र᳚ । रण᳚न्ति । धी॒तयः᳚ ।
त्रि॒धातु᳚॑भिः । अरु᳚षीभिः । वयः᳚ । द॒धे॒ । रोच᳚मानः । वयः᳚ । द॒धे॒ ॥
प॒रा॒॑वतः᳚ । न । साम᳚ । तत् । यत्र᳚ । रण᳚न्ति । धी॒तयः᳚ ।
त्रि॒धातु᳚॑भिः । अरु᳚षीभिः । वयः᳚ । द॒धे॒ । रोच᳚मानः । वयः᳚ । द॒धे॒ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम त्वं त्यत्पणीनां वसु पणिभिरपहृतं गवात्मकं धनं विदः अलभथाः । आ अपिच ऋतस्य यज्ञस्य धीतिभिः धात्रीभिर्मातृभिः वसतीवरीभिः स्वे आत्मीये दमे गृहभूते दमे यज्ञे संमर्जयसि सम्यक् शुद्धोभवसि । परावतोन दूरस्थाद्देशात् यथा साम सामध्वनिः श्रूयते तथा तव तत्साम ध्वनिः सर्वैः श्रूयते । असौ सोमाभिषवाभिप्रायेणो- क्तः । यत्र यस्मिन् शब्दे धीतयः कर्मणोधर्तारोयजमानाः रणंति रमन्ते । रोचमानः सोमः त्रिधातुभिः त्रयाणां लोकानां धारयित्रीभिः मातृभिः वसतीवरीभिः अरुशीभिः आरोचमा- नाभिर्दीप्तिभिः वयोन्नं दधे स्तोतृभ्यः प्रयच्छति पुनर्वयोदधइत्यादरार्थे ॥ २ ॥