श्रवणम्

9.40.2
आ योनि᳚मरु॒णो रु᳚ह॒द्गम॒दिन्द्रं॒ वृषा᳚ सु॒तः ।
ध्रु॒वे सद᳚सि सीदति ॥
▶ पदपाठः (Word-by-word)
आ । योनि᳚म् । अ॒रु॒णः । रु॒ह॒त् । गम᳚त् । इन्द्र᳚म् । वृषा᳚ । सु॒तः ।
ध्रु॒वे । सद᳚सि । सी॒द॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमरुणोरुणवर्णः सोमो योनिं स्थानं द्रोणकलशमारुहदारोहति ततइन्द्रं गमद्गच्छति । कुतः सन्नयं वृषावर्षकः फलानां सुतोभिषुतः सन् गत्वा ध्रुवेसदसि स्थिरेस्थाने द्युलोकाख्ये सीदति निवसति ॥ २ ॥