श्रवणम्

9.40.3
नू नो᳚ र॒यिं म॒हामि᳚न्दो॒॑स्मभ्यं᳚ सोम वि॒श्वतः᳚ ।
आ प᳚वस्व सह॒स्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । र॒यिम् । म॒हाम् । इ॒न्दो॒ इति᳚ । अ॒स्मभ्य᳚म् । सो॒म॒ । वि॒श्वतः᳚ ।
आ । प॒व॒स्व॒ । स॒ह॒स्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोमाभिषुतस्त्वं हे इन्दो नोस्मभ्यं नु क्षिप्रं महां महान्तं सहस्रिणं असंख्यातं रयिं धनं विश्वतः आपवस्व सर्वतः परिस्रव ॥ ३ ॥