श्रवणम्

9.40.4
विश्वा᳚ सोम पवमान द्यु॒म्नानी᳚न्द॒वा भ᳚र ।
वि॒दाः स᳚ह॒स्रिणी॒रिषः᳚ ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚ । सो॒म॒ । प॒व॒मा॒न॒ । द्यु॒म्नानि᳚ । इ॒न्दो॒ इति᳚ । आ । भ॒र॒ ।
वि॒दाः । स॒ह॒स्रिणीः᳚ । इषः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवमान पूयमान इन्दो दीप्त त्वं विश्वा सर्वाणि बहुविधानि द्युम्नानि द्रविणानि आभराहर । विदाः लंभयच सहस्रिणीः सहस्रसंख्याकानि इषोन्नानि ॥ ४ ॥