तव᳚ प्र॒त्नेभि॒रध्व᳚भि॒रव्यो॒ वारे॒ परि᳚ प्रि॒यः ।
स॒हस्र᳚धारो या॒त्तना᳚ ॥
स॒हस्र᳚धारो या॒त्तना᳚ ॥
पदपाठः (Word-by-word)
तव᳚ । प्र॒त्नेभिः᳚ । अध्व᳚॑भिः । अव्यः᳚ । वारे᳚ । परि᳚ । प्रि॒यः ।
स॒हस्र᳚॑धारः । या॒त् । तना᳚ ॥
स॒हस्र᳚॑धारः । या॒त् । तना᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हे सोम तव संबंधी प्रियोदेवानां प्रीतिकरः सहस्रधारोबहुधारः तना विस्तृतसारोरसः प्रत्नेभिः पुराणैः अध्वभिर्मार्गैः अव्योवारे वाले दशापवित्रे परियात् परिगच्छति ॥ २ ॥